25a प्रहरति । त्वत्सुखेनैव सुखिता वयम् । किं कन्दर्पचण्डालेन निष्ठुरेणापि कृतमिति वक्रोक्त्या आत्मनस्तद्विषयमनुगत[त्वं] तस्याश्च वैमुख्यमात्मनि दर्शयतीति अयमीदृशोऽर्थः अग्राम्यः सभ्यः काव्योचितः ततश्च रसावहः एकान्तमघुरः । एवंविधो वस्तुन्यग्राम्यतारसः प्रतिपत्तव्यः । अपरमत्रोदाह्रियते—