42
नन्वहं प्रणत एव, मानिनी सा भवन्तमवधीर्य वर्तते ।
मन्मथस्त्वमसि किं न तन्मथः कुत्र वा न तव काम ! वामता ॥ इति ॥

यथार्थो ग्राम्यस्तथा शब्दोऽपि ग्राम्योऽस्ति, सोऽपि वर्जनीय इति दर्शयन्नाह—

शब्देपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनम् ।
यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ ६५ ॥

न केवलमर्थे शब्दे वाचकेऽपि ग्राम्यतास्त्वेव न नास्ति । कीदृशीत्याह—सेत्यादि । सा ग्राम्यता सभ्येतरे असभ्या रथ्यापुरुषास्तेषां कीर्तनं यत् कियदसभ्यसमुदाहृतं वचनं ग्राम्यता । पदगतग्राम्यतेत्युक्तम् । यथेति निदर्शनेन व्यनक्ति—रत्युत्सवस्य निधुवनानन्दस्य निरूपणे प्रकाशने कर्त्तव्ये यकारादिपदं यकारमादिर्यस्य तच्च तत् पदं चेति विग्रहः । सुसिद्धं खल्वेतदशिष्टवचनम् ।तथाविधं सर्वं ग्राम्यं द्रष्टव्यम् । नेदमेवेति यथाशब्दस्यार्थः ॥

अन्यः शब्दे ग्राम्यताप्रकारोऽस्ति, सोऽपि वर्जनीय इति व्युत्पादयन्नाह—

पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः ।
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ ६६ ॥

पदयोः सन्धानं सङ्गतिरानन्तर्यं तस्य वृत्त्या स्थित्या । वेति समुच्चये । वाक्यस्य पदसमुदायस्यास[त्त्यादियुक्त]