45 सौकुमार्यविपर्ययं गौडवर्त्मनि दर्शयन्नाह—

दीप्तमित्यपरैर्भूम्ना कृच्छ्रोद्यमपि बध्यते ।
न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति ॥ ७२ ॥

दीप्तमूर्जितं साटोपमेतदिति मन्यमानैरपरैः पौरस्त्यैः कृच्छ्रोद्यं दुर्वचं कष्टोच्चारणमसुकुमारतरमपि काव्यं बध्यते प्रयुज्यते न केवलसुकुमारमात्रमित्यपिंशब्दः । भूम्ना प्रायः । ततश्च सुकुमारमपि किंचिदुष्णमधुन्यायेन येनोपयुज्यत इति सूचयति तदुदाहरति । 61न्यक्षेण निःशेषेण क्षपितः निहतः क्षणात् सपदि स्तोकेन कालेनेत्यर्थः । क्षत्रियाणां राज्ञां पक्षो वर्गः परशुरामेणान्येन वा केनचिदिति गम्यते । नन्वेतद्विवक्षितं कृच्छ्रोद्यमात्रं तूदाहृतमिति यथा तादृशमित्यर्थः ॥

अर्थव्यक्तिं व्याख्यातुमाह—

अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता ।
भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति ॥ ७३ ॥

अर्थस्य काव्याभिधेयवस्तुनो नेयत्वं शब्दतोऽर्थतो वाप्रतीतिरन्यथावगमः स्यात् । गत्यन्तराभावात् । यद्वक्ष्यति—न हि प्रतीतिः सुलभा शब्दन्यायविलंघिनी । इति ।62

नेयत्वभेदमनूद्यार्थव्यक्तिर्विधीयते । तदुदाहरति । हरीत्यादि, हरिणा वराहरूपधारिणा विष्णुना पृथिवी भूरुद्धृता समुत्तारिता उदधेः समुद्रात् । किंविशिष्टात् । खुरैर्महावराहस्येत्यर्थाद्गम्यते । चरणाग्रैः क्षुण्णानां चूणितानां नागानामुरगाणामसृजा रुधिरेण लोहितादरुणात्

  1. न्यक्षं कात्स्नै निकृष्ठे च इति वैजयन्ती ।

  2. १. ७५