46 तथाविधस्योदधेर्नागरुधिराव्यभिचारात् । न हि सर्वत्र शाब्दी प्रतीतिः काव्ये, अर्थे अपि तस्या दर्शनात् । यदाह कालिदासः—

महेन्द्रमास्थाय महोक्षरूपं यः संप्रति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ इति ।
63

अत्र हि तेन राज्ञा बाणैरसुराः समरे हता इत्यर्थो विवक्षितः कविना । न चासुरवधः शब्दोपात्तः । तथापि असुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाश्चकार बाणैरित्युक्ते सामान्यादसुरा हता इति न्यायोपात्तोऽसुरवधस्तादृशस्य पत्रलेखाप्रवासस्यासुरवधाव्यभिचारात् । न चेदृशं नेयत्वम्, प्रत्युत वक्रोक्तिरीदृशी गुण एव काव्यस्य । ततः शब्देन न्यायेन वाचिना यत्रार्थो नेतव्यस्तादृशं नेयं विज्ञेयमन्यथा तथाविधं काव्यं सर्वं दुष्येदिति ॥

नेयमुदाहरन्नाह—

मही महावराहेण लोहितादुद्धृतोदधेः ।
इतोयत्येव निर्दिष्टे नेयत्वमुरगासृजः ॥ ७४ ॥

लोहितादुदधेरुद्धृता मही महावराहेनेत्युक्ते कथं लोहितत्वमुदधेरिति नयं न तावत्स्वाभाविकम् । औपाधिकं तु भवेत् । न चोपाधिस्तादृशः शब्दोपात्तो न्यायलब्धो वा येन लोहितत्वमुदधेः स्यात् ।

  1. रघुवंशे ६. ७२