47 नेयं सर्वैरेव नेष्यत इति दर्शयन्नाह—

नेदृशं बहु मन्यन्ते मार्गयोरुमयोरपि ।
न हि प्रतीतिः सुलभा शब्दन्यायविलङ्घिनी ॥ ७५ ॥

ईदृशमनन्तरोक्तप्रकारं नेयमुभयोरपि वैदर्भगौडीययोर्मार्गयोर्वर्त्मनोः । न वैदर्भ एव । न बहु मन्यन्ते नाद्रियन्ते न प्रयुज्यन्ते तद्विदः ।

तच्च एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ।64 इति प्रायोग्रहणेन संगृहीतं किं बहु मन्यत इति चे

  1. १. ४२