28b दाह—न हीत्यादि । हिशब्दो यस्मादर्थे । यतः प्रतीतिरर्थस्यावगमः शब्दं वाचकं न्यायसामर्थ्यं च तादृशमनुपदर्शनाल्लङ्घयति त्यजत्यनुपादा[ना]दिति, शब्दन्यायविंलङ्घिनी न सुलभा न प्राप्यते कस्यचिद् विंवक्षामात्रेण तादृशेन । तस्मान्नेच्छन्ति मूलहानेः । न्यायोपात्तः शब्दोपात्तो वा योऽर्थो न भवति स न प्रतीयतेऽन्तस्तत्त्वमात्रेणेत्यर्थः । तस्मात् शब्दादर्थाद्वा प्रतीतार्थमनेयं तद्विपरीतं तु नेयमिति स्थितम् ॥

उदारत्वं निर्दिशन्नाह—

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।
तदुदाराह्वयं तेन सनाथा सर्वपद्धतिः ॥ ७६ ॥

यस्मिन् कस्मिंश्चित् उक्ते प्रयुक्ते कश्चिद्विवक्षिंतो गुणो विशेषस्त्यागादिलक्षण उक्तर्षवानधिमात्रः प्रतीयते अवगम्यते तत् काव्यमुदाराह्वयमुदारं नाम वेदितव्यमिति विधिः । उदारमित्याह्वयः संज्ञा यस्येति विग्रहः । यद्येवं स एवोत्कर्षवान् गुण उदारोऽस्तु, काव्यं कथमुदारमुच्यते इति चेदाह—तेनेत्यादि । यतस्तेनोत्कर्षवता गुणेन वाच्यत्वेनापिं रूपेण सर्वा पद्धतिः सर्वं तत्काव्यं विवक्षितं यत्किञ्चित् सनाथा युक्ता, तस्मादुदारगुणयोगात् सर्वं तत् काव्यमुदारमिति द्रष्टव्यम् ॥