29a कृपणा अवस्था यस्या इति विग्रहः । पुनस्तथैव कृपणा अप्राप्तकामत्वादन्यस्य दातुर्मुखं नेक्षते न पश्यति देवेति कश्चिद्राजा स्तूयते । त्वामेकवारमर्थितया प्राप्य पुनरन्यं न याचते त्वत्त एव पूर्णमनोरथत्वात् । आकारमात्रेण वार्थितां ज्ञात्वा कृतार्थयसि यावद् याच्ञाक्षराणि कृपणानि नोद्गीरन्तीत्यर्थः ॥

कः पुनरिहोत्कर्षवान् गुणो येन सनाथं सर्व तत्काव्यमुदारं स्यादिति विवृण्वन्नाह—

इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते ।
अनेनैव पथान्यच्च समानन्यायमूह्यताम् ॥ ७८ ॥

इत्यस्मिन्न[न]न्तरोक्ते वाक्ये काव्ये त्यागस्य दानस्य गुणोत्कर्षः अतिशयः साधु सम्यक् परिस्फुटं क्रियाविशेषणं, लक्ष्यते प्रतीयते । तस्मात्तद्योगेनोत्कर्षवता गुणेनेदं काव्यं सर्वं सनाथमुदारमाख्यायत इति योज्यम् । प्रकारमिममन्यत्राति[दि]शन्नाह—अनेनेत्यादि । अनेनैवोक्तेन पथा विधिना अन्यच्च परमपि समानः सदृशः न्यायः प्रकारो यस्य तत् समानन्यायमेवंजातीयकमू[ह्य]तां स्वयमनुगम्यताम् । दिशो दर्शितत्वाच्च शक्यमनुसर्तुमीदृशमिति भावः । तद्यथा—

त्वन्नामग्रहणादेव देव ! त्वदरियोषितः ।
शोकारुणानि चक्षूंषि वहन्ति विधवा इव ॥ इति ।

अपरप्रकारं दर्शयन्नाह—

श्लाध्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ ७९ ॥

श्लाध्यैरुत्कृष्टैर्विशेषणैरुपाधिभिर्युक्तं संगतमुदारं कैश्चिदि