अपरप्रकारं दर्शयन्नाह—

श्लाध्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ ७९ ॥

श्लाध्यैरुत्कृष्टैर्विशेषणैरुपाधिभिर्युक्तं संगतमुदारं कैश्चिदि29b ति पौरस्त्यै49 रिष्यते । [तन्मते] तदप्यस्त्विति भावः । यथेत्युदाहरति । लीलार्थमम्बुजं, क्रीडार्थं सरः, हेममयमङ्गदमिति [सर्वत्र] मध्यपदलोपी समासः । लीलाम्बुजक्रीडासरोहेमा[ङ्गदा......आ]दिर्येषां ते । इमे श्लाघ्यविशेषणयुक्तप्रकारा लीलादीनां विशेषणानां श्लाघ्यत्वात् । तद्योगात् काव्यमुदारं द्रष्टव्यम् । आदिशब्देनादर्शभित्तिमणिमेखलाकुसुमस्रग्विभ्रममण्डनाङ्गलेखादिपरिग्रहः ॥