49 रिष्यते । [तन्मते] तदप्यस्त्विति भावः । यथेत्युदाहरति । लीलार्थमम्बुजं, क्रीडार्थं सरः, हेममयमङ्गदमिति [सर्वत्र] मध्यपदलोपी समासः । लीलाम्बुजक्रीडासरोहेमा[ङ्गदा......आ]दिर्येषां ते । इमे श्लाघ्यविशेषणयुक्तप्रकारा लीलादीनां विशेषणानां श्लाघ्यत्वात् । तद्योगात् काव्यमुदारं द्रष्टव्यम् । आदिशब्देनादर्शभित्तिमणिमेखलाकुसुमस्रग्विभ्रममण्डनाङ्गलेखादिपरिग्रहः ॥

ओजः किंलक्षणमितिं निर्दिशन्नाह—

ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् ।
पद्येऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥ ८० ॥

समासस्यैकार्थवृत्तेर्भूयस्त्वं बाहुल्यमित्यनूद्य ओजो विधीयते । तदेतदोजः समासबाहुल्यलक्षणं गद्यस्योक्तरूपस्य जीवितं हृदयं सारं न पद्यस्य तत्प्रधानत्वाद्नद्यस्येतिं । वैदर्भाणां दाक्षिणात्यानाम् । गौडानां तु इदमोज एकं केवलं परायणं शरणं पद्येऽपि विषये न केवलं गद्ये ततश्चात्रापि मतभेद इति ॥

तस्यैव प्रकारान्तरं विषयं च दर्शयन्नाह—

तद् गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः ।
उच्चावचप्रकारं सद् दृश्यमाख्यायिकादिषु ॥ ८१ ॥

तदोजः उच्चावचो व्याकुलः अनियतः प्रकारो गतिः प्रयोगो यस्य तदुच्चावचप्रकारं सत् भवत् दृश्यं विज्ञेयमाख्यायिकादिंषु गद्यप्रबन्धेषु । आदिंशब्देन कथादिपरिग्रहः । कथमुच्चावचप्रकारान्तरं भवतीत्याह—गुरूणां संयोगपराणां दीर्घाणां च लघूनामक्षरा