3 इत्यादिना । यत् पुनर[त्र........का]रणमन्यद् वा यथा कथञ्चिद् घुणाक्षरप्रख्यं दृश्यते तत्रापि शास्त्रमस्तीति तद्विदां प्रयोगपथानुसारात् स्यात् । जन्मान्तरे वा कृतशास्त्राभ्या[सप्रति (4b) बु]द्धसंस्काराणां परिनिष्ठितमपि स्यात् । यान् सारस्वताननधीतपण्डितान् वा व्यवहरति लोकः । यदपि सरस्वतीप्रसादात् काव्यकरणादिकमिष्टम्, तदपि शास्त्रप्र[भाव]........प्रभावितत्वात् । किं बहुना ? सर्वलोकयात्रा चतुर्वर्गव्युत्पत्तिलक्षणा शास्त्रादेव । तस्मादिदमपि काव्यगुणदोषव्युत्पत्त्यर्थं करणीयमेव, यतः परिनि[ष्ठितं काव्यं जाय]त इति भावः ॥

एवमन्वयेत लोकयात्रां शास्त्रमूलां प्रतिपाद्यैतदेव व्यतिरेकेण द्रढयन्नाह—

इदमन्धं तमः कृत्स्नं जायेत भूवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरा संसारान्न दीप्यते ॥ ४ ॥

यदनन्तरमुक्तं लोकया[त्रा]...........ज्योतिरालोकः शब्दाह्वयं शास्त्रसंज्ञकं चतुर्वर्गप्रकाशकत्वात् । शब्द इत्याह्वयो यस्येति विग्रहे, यदि न दीप्यते न प्रकाशते न स्यादित्यर्थः । के...........रोऽत्र सत्त्वलोकः । यश्चतुर्वर्गमनुतिष्ठति तत् मर्यादं[?] ये तु मुक्तास्तेषां न संसारात्मकत्वम्, नापि चतुर्वर्गानुष्ठानम् । सर्व......[स्व]र्गमर्त्यपाताललक्षणं जगत्रयं सत्त्वलोकः यस्य चतुर्वर्गप्रतिपत्तिः सम्भवति । इदमिति । अत्य......तेन वा तमोऽन्ध[कारः]........[ल]क्षणलोकयात्राविगमात् । अप्रतिपत्तिकसं[सारा]त्मकं स्यादित्यर्थः । किमेकदेशेन, नेत्याह- कृत्स्नमिति । निरवशेषं नांशेन तथाप्य[ल्पम्, नेत्या]ह- अन्धमिति । अन्धं निरन्तरम[ज्ञानतमोयोगात्] चतुर्वर्गप्रतिपत्तेः कथञ्चिदप्यभावात् सर्वथा निवृत्तचतुर्वर्गज्ञानात्मकं जगत् स्यात् । न क[थञ्चिद् वस्तुप्रति]पत्तिर्भवेदित्यर्थः । यद् वा, अन्धंतम.....[पृ]षोदरादिदर्शनात् सिद्धम् । अर्थस्तु स एव । समाधिश्चैष सर्वथाऽज्ञाने निवृत्ते सर्वमत्र गृह्यते [अन्व]यव्यतिरेकाभ्याम् । शास्त्राभ्यासः काव्यगुणदोषविवेकार्थं क्रियत इति पूर्ववदाकूतम् । अत एवोच्यते—

शास्त्रादेव हि सर्वत्र गुणदोष[विचार]णम् ।
विना शास्त्रेण यत्...................... ॥

......घटकं शास्त्रविशेष एष वस्तुतः । तत्रापि चतुर्वर्गप्रतिपत्तेः । यद् वक्ष्यति—चतुर्वर्गफलायत्तमि[त्यादि]5

  1. १.१५