30a णां च बाहुल्येनोपचयेन अल्पत्वेनासञ्चयेन मिश्रणं समत्वेन चेत्येवं बाहुल्याल्पत्वमिंश्रणैः कारणैरुच्चावचप्रकारम् । नियमाभावात् क्वचिद् गुरूणां बाहुल्यं लघूनामल्पत्वं, क्वचिल्लघूनां बाहुल्यं गुरूणामल्पत्वं, क्वचिदुभयेषां समत्वमितीयन्तः प्रकारा भवेयुरिति ॥

पौरस्त्यानामोजःपद्यविषयमुदाहरन्नाह—

अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ॥ ८२ ॥