30b व्यम् ॥

इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः ।
अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ ८३ ॥

इत्येवंविधा अहृद्या ओजस्विनीः समासबाहुल्यवतीः गिरः शब्दान् पद्येऽपि काव्ये, न केवलं गद्ये । बध्नन्ति रचयन्ति पौरस्त्या गौडाः । दाक्षिणात्या अपि क्वचित् पद्येऽप्योजः प्रयुञ्जते । तत्तु विशेषविवक्षायां तुशब्दः । अनाकुलमगहनम् । अत एव हृद्यं सुभगम् ओजः कथितलक्षणम् इच्छन्ति प्रयुञ्जते इति ॥

कीदृशं तदित्युदाहरति—

पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका ।
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ ८४ ॥

वारुणी दिगपरा । किंभूता ? पयोधरो मेघः स्तनश्च । शब्दश्लेषोऽयम् । तस्य तटः एकदेशः स एवोत्सङ्गो मध्यभागः । तत्र लग्नः स्थितः सन्ध्यातपः । दिनपरिणतिः स एवांशुकं रक्तं वस्त्रं यस्याः सा तथाभूता कस्य नाम कामिनश्चेतश्चित्तं कामातुरं मन्मथाक्रान्तं न करिष्यति ? सर्वस्यैव करोति रागानुकूलत्वात्तस्या अवस्थायाः । तादृशमनाकुलं हृद्यमोजः प्रयुञ्जते वैदर्भाः ।