31b दृष्टा माता पुनन्त्येते त्वं पुनः स्मरणादपि ॥ इति ।

अनयोरनवद्याङ्गि स्तनयोजृम्भमाण्योः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरम् ॥ ८७ ॥

अनवद्याङ्गि सर्वाङ्गसुन्दरि ! अनयाः तव स्तनयोः जृम्भमाणयोः परिवर्द्धमाण्योः बाहुलतान्तरं हृदयं पर्याप्तः परिपूर्णः अवकाशः स्थानं, [न] भवति । स्वल्पमेतत्स्थानं यत् बाहुलतान्तरं नाम । अतिमात्रस्तनौन्नत्याद् इत्ययमपि लौकिक एवार्थः । [ ततः सर्वजगत्कान्तमीदृशं वर्णनमिति ॥

कीदृशं सम्भाव्यते येन सर्वजगत्कान्तं स्यादिति चेदाह—

इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् ॥
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ ८८ ॥

इति परत इदमेवंविधं विशेषाख्यानसंस्कृतं संभाव्यं नैव लोके न सम्भाव्यत एव लौकिकार्थानुसारेण प्रयुक्तत्वात् । प्रकृतापेक्षया तयोर्विशेषः पादपांसूनां च पावनत्वं स्तनयोश्च तादृशविजृम्भनं विशेषोऽतिशयः तस्याख्यानेनोद्भावनेनासंस्कृतं व्युत्पन्नम् । विशेषो वा आख्यायते येन तदेव संस्कृतं सुप्रयुक्तत्वात् । काव्यं सम्भाव्यमिति प्रकृतम् । ततश्च लोकयात्रानुवर्तिनः लोकार्थानुसारिणः सर्वविदग्धस्येतरस्य वा जनस्य कान्तं मनोहरम्, तादृशं काव्यं भवति जायते ।

अद्य जाता वयं देव प्राप्ताः सर्वाश्च सिद्धयः ।
यदेवं पुण्यया स्पृष्टा दृष्ट्या स्मितप्रसन्नया ॥
[प्र]पश्यात्मानमेतस्मिन्नुज्ज्वले गण्डमण्डले ।
दर्पणानयनश्रान्त्या तन्वि किं दूयसे मुधा ॥
इति अ