53
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥ ८९ ॥

लोकातीतोऽलौकिक इव लोकरञ्नात् । व्युत्पन्नास्तु रज्यन्ते । अत एव इवशब्दप्रयोगः । योऽर्थोऽत्यर्थमतिमात्रमध्यारोप्यते परिकल्प्यते, यथा च सर्वजगत्कान्तं काव्यं जायते । अध्यारोपमात्रं तु पूर्वस्मिन्नपि विद्यते इति अत्यर्थमित्युक्तम् । विवक्षितः प्रयुक्तः काव्यरूपेण तेन तथाविधेनार्थेन अभिधेयेन तथाविधार्थानुवर्तिना काव्येनेति यावत् । विदग्धा व्युत्पन्ना अतितुष्यन्ति अनुरज्यन्ते सुतरां तथाविधोक्त्या, अहतबुद्धित्वात् । इतरेऽविदग्धा नातितुष्यन्ति, तादृशामभावितस्वभावत्वात् । असंभाव्यमेतदतिप्रसङ्गोऽयमिति नानुरज्यन्ते इत्यर्थः । अत, एव सर्वजगत्कान्तं न भवति, विदग्धानामेव रञ्जनात् । यथेत्युदाहरति—

देवधिष्ण्यमिवाराध्यमद्यप्रभृति नो गृहम् ।
युष्मत्पादरजःपातधौतानःशेषकिल्विषम् ॥ ९० ॥

देवायतनमिव यथा अद्य प्रभृति एतद्दिनमारभ्य नोऽस्माकं गृहमिदमाराध्यमुपास्यं यूजनीयं कृतम् । युष्माकं पादयोश्चरणपद्मयो रजसां रेणूनां पातेन संसर्गेणाघमर्षणेन धौतमपनीतं निःशेष समस्तं किल्विषं पापं यस्मिस्तथा । यत एवं तस्मादाराध्यमितिःप्रकृतम् । वार्ताभिधानमात्रमीदृशमलौकि कार्थमेव । ततश्च सर्वजगत्कान्तमिति ॥

अल्पं निमिंतमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ ९१ ॥

इदं प्रत्यक्षम् एवंविधमतिशयं भवत्याः तव स्तनयाजृ म्भणं व्यापन भावि भविष्यत्कालापेक्षया अनालोच्यादृष्ट्वैवाल्पं संकीर्णं यथा न मातः स्तनौ, आकाशं व्योम निर्मितं विहितं वेधसा विधिना यद्यालोचयिष्यन्नैवं स्तोकमाकाशं निरमास्यत् प्रथमं तावत् जातवेदा इति वर्णनमसंस्कृतमेव ॥ नेदृशं सर्वजगत्कान्तं लौकिकार्थातिक्रमात् ॥