कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च ।
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ॥ ९४ ॥

कुमुदानि कैरवा निमीलन्ति निमिषन्ति कमलानि पद्मानि उन्मिषन्ति चेत्यत्र कतमो धर्मः समाहितः इत्याह—नेत्रेत्यादि । नेत्रस्य क्रिया निमेषोन्मेषलक्षणा प्रसिद्धो धर्मः तस्मात्ततोऽन्यत्र कुमुदादिषु अध्यासात् समाधानात् समारोपात् कारणात् । तद्वाचिनी नेत्रक्रियाभिधायिनी श्रुतिर्निमीलन्तीत्यादिका लब्धा प्राप्ता प्रयुक्तेति यावत् । अर्थानुगामित्वाच्छब्दस्य इत्येवंभूतो भाक्तः शाब्दो व्यवहारः काव्ये समाधिनाम्ना ख्यायते ॥