34b प्रशंसामुखेन निगमयन्नाह—

तदेतत् काव्यसर्वस्वं समाधिर्नाम यो गुणः ।
कविसार्थः समग्रोऽपि तमेनमनुगच्छति ॥ १०० ॥

तदेतदनन्तरोक्तं काव्यस् यथोक्तस्य गद्यपद्यमिश्रात्मकस्य सर्वस्वं सारं तत्परायणत्वात्काव्यस्येति सामान्योक्तिरियम् । किं तदिति निर्मिनत्ति । समाधिर्नाम यो गुण इति योऽयमनन्तरं विभक्तः समाधिर्नाम समाधिसमाख्यो गुणो धर्मस्ततश्च समग्रः सर्वोऽपि नैक एंव, कविसार्थः कविजनः तमेनं प्रकृतं समाधिमनुगच्छति समाश्रयति प्रयुङ्क्त इति यावत् । ततश्चोभयोरपि वर्त्मनोरयं साधारण इतीदमपि प्रायो गुणेषु संगृहीतं दृष्टमिति ॥