59 व्याकरणक्रियाकल्पछन्दोविचित्याद्यनेकविद्याविषयत्वात्, अनेकशः प्रवृत्तत्वाच्च बहु पर्याप्तं निर्मलं परिशुद्धम्, आम्नायविशुद्ध्या सन्देहविपर्यासविरहात् । एवं श्रुतमयं ज्ञानं परिपूर्णमभिधाय चिन्तामयं भावनामयं च दर्शयन्नाह—अमन्दश्चाभियोग इति । श्रुतस्य चिन्तनमूहापोहमुखेन यथाम्नायमविपरीतार्थनिश्चयनम् । निश्चितस्य च भावनमभ्यासः आवृत्तिः स्थिरीकरणमिति द्विविधोऽभियोगः अभ्यासः । स चामन्दः पर्याप्तः यावद्भावितत्वात् । तदेतत्त्रयरूपा काव्यविषया व्यु[त्प]