ननु केचिदेव सहजशक्तियुक्ताः । तत्किमिदानीं मा भूदन्येषामिह प्रवृत्तिः ? येनोच्यते नैसर्गिकी च प्रतिभेत्यत्र आह—

न विद्यते यद्यपि पूर्ववासना-गुणानुबन्धि प्रतिभानमद्भुतम् ।
श्रतेन यत्नेन च वागुपासिताध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४ ॥

पूर्ववासना जन्मान्तराभ्यासाहितः संस्कारः अभ्यासानुबन्धित्वात् । यथोक्तमाचार्यशूरेण—

अभ्यासयोगेन शुभाशुभानिकर्माणि सात्म्यैव भवन्ति पुंसाम् ।
तथाविधान्येव यदप्रयत्ना-ज्जन्मान्तरे स्वप्न इवाचरन्ति ॥ इति ।
68

60 पूर्वा चासौ पूर्वजन्मभावितत्वात्, वासना चेति विग्रहः । सैव गुणो विशेषः, सद्भिः स्तुतत्वात् । 37a तस्या वा गुणः यथाप्रत्ययं प्रबोधः स्वानुरूपकार्यजननाभिमुखलक्षणो विशेषस्तं हेतुभावेन अनुबध्नाति, अपेक्षत इति पूर्ववासनागुणानुबन्धि । प्रतिभानं प्रज्ञा तच्च प्रकरणात् काव्यविषयकम् । अद्भुतमाश्चर्यं लोकस्य कथमीदृशं प्रतिभानं यथेति विस्मयजनकत्वाद् दुर्लभं वाद्भुतम् । नैसर्गिकी प्रतिभेति यावत् । यद्यपिन विद्यते येषां तैरपि काव्याभ्यासः करणीयः । एवं नासौ निष्फला भविष्यतीत्याह—श्रुतेनेत्यादि । श्रुतेन काव्याङ्गविद्याविषयेण श्रवणेन बहुना निर्मलेन । यथोक्तं प्राक् । यत्नेन चाभियोगेन अमन्देन यथोक्तं पूर्वम् । करणेन हेतुना पुरुषेणोपासिता समाराधिता अभ्यस्तेति यावत् । वाक् काव्याङ्गक्रियाकल्पादिविद्यालक्षणविशिष्टा अर्थात्प्रकरणाद्वा तदन्यथानुपपत्त्या काव्यसम्पदोऽर्थः सामर्थ्यम् । काव्यव्युत्पत्तिप्रस्तावः प्रकरणम् । यथोक्तम्—

अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ।
सामान्यवाचिशब्दानां विशेषस्थितिहेतवः ॥ इति ।
69

अपरन्यायो यथासम्भवमिह सर्वोऽनुसर्तव्यः सामान्योक्तिभूयस्त्वात् । कमपि कञ्चित् सहजशक्त्यविरहे यादृशं तत्कल्पमनुग्रहं काव्यरचनासाम[र्थ्यदान]लक्षणम् । ध्रुवमवश्यं करो37b त्येव उपासितुः पुरुषस्य । नात्र सन्देहः । तस्मान्नैसर्गिकी प्रतिभा नास्ति ममेति नोपासितव्यैव सरस्वती । कामधेनुरवश्यमेवानुग्रहीष्यतीति [ध्येयम्] ॥

  1. जातकमालायाम् पृः ९५
  2. [तुल॰ वाक्यपदीयम्