61
अधीत्य तावत् खिलमेव भिद्यतेकृषिस्तु तस्य श्रमणाद्विभाव्यते ।
ततः स्वचिन्तामयबीजमुप्यतेविचारणाङ्गस्तु विवर्द्धतेऽङ्कुरः ॥
ततः प्रसादोत्तमसस्यमाप्यतेविधानपर्याप्तममन्दनिश्चयैः ॥ इति ।

सरस्वती काव्याङ्गविद्यालक्षणा प्रकरणादेर्यथोक्तं प्राक् । खलु [ऐ]कान्तेन असंशयम् वा । कीर्तिः परिशुद्धकाव्यक्रियालक्षणा पूर्वोक्ता, काव्यसम्पदः एकान्तेन कीर्तिहेतुत्वात् । आवर्तते स एवार्थः पुनरर्थान्तराश्रयादिति न्यायात् । तत्सम्भवा ख्यातिर्वा, गुणेभ्य एव प्रभवन्ति कीर्तय इति वचनात् । तामनश्वरीं सत्पुरुषतनुमशेषजनसुभगां व्यापिनीं गुणाधिराजवैजयन्तीमीप्सुभि[रवाप्तु]कामैः पु