यत एवं सर्वत्र गुणदोषविवेकः शास्त्रादेव । गुणश्च पुरुषार्थेन योजयति दोषश्च [इतरेण, अतः] शास्त्रानुसारेण गुणवत् [काव्यमेकान्ततः] पुरुषार्थसाधनम् । दोषस्तु स्वल्पोऽपि शास्त्रप्रभावादेवापनेयः । अन्यथा हेयं स्यादिति प्रकृतमनुबध्नन् आह—

तदल्पमपि नोपेक्ष्यं काव्यं दुष्टं कथञ्चन ।
स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ ७ ॥

[दुष्टं काव्यं नोपे]क्ष्यं कथञ्चनेत्यत्रापि योज्यम् । केनापि प्रकारेण नोपेक्षणीयम् । सर्वथाऽपनेयमेव शास्त्रदृष्टया । अन्यथा हेयं स्यात् । तदेव प्रतिवस्तूपमया साधयन्नाहस्यादित्यादि [वपुः शरीरं सुन्दरम]पि वर्णसंस्थानसम्पन्नमपि प्रागेवासुन्दरम् । एकेन श्वित्रेण कुष्ठदोषेण दुर्भगमस्पृश्यं हेयं स्यात् । सुन्दरमपि शरीरं कुष्टेन स्वल्पेनाप्युप [पन्नं हेयं यथा] तथा कवेः काव्यमयं शरीरं शाश्वतं सर्वार्थसाधनं स्वल्पेनापि शब्दरूपेणार्थलक्षणेन वा दोषेण श्वित्रकल्पेन परिहरणीयं स्यात् । प्रागेव......द्धं कार्यं करणीयम् । दोषस्तु स्वल्पोऽपि परिहरणीयः शास्त्रदृष्टयेति ।