6a यं न वेत्ति, कथं तस्याप्रतिपन्नोपायस्य गुणदोषविवेकलक्षणमुपेयं सेत्स्यति । यथा त्वस्य रूपव......................किमन्धस्येत्यादि । अन्धस्य चक्षुर्विकलस्य रूपभेदानां नीलपीतादीनां रूपविशेषाणां उप[ल]ब्धिषु दर्शने[षु नाधिंकारः । इ ]ह सामान्येन रूपं नाम किञ्चिदस्तीति श्रुतिमात्रकमपश्यतः स्यात् । न तु रूपविशेषसाक्षात्का[रः । विशेषज्ञानाभावे] न च तत् क्वचिदुपयुज्यते । ततो यदाहमनुष्ठाना[?]भावाद् विभागेन तु सर्वात्मना शास्त्र......[विभ]जत इत्याह । तदेवमियता ग्रन्थेन शास्त्रादेव सर्वगुणदोषविवेकतो नान्यथा काव्येऽपि......

अतः प्रजानां व्युत्पत्तिमभिसन्धाय सूरयः ।
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ ९ ॥

अतः कारणात् सूरयः पूर्वाचार्याः क्रियाविधिं निबबन्धुरिति संबन्ध । क्रियाविधिं क्रियाकल्पम्.........[मल्ल]नागेन7 विद्यासमुद्देशे क्रियाकल्प इति काव्यालङ्कार उक्तः । तदनुसारेणानेन क्रियाकल्पः क्रिया .........[विधी]यतेऽनेनेति क्रियाविधिः । क्रियाकल्पोऽपि एवमिति नार्थतः कश्चिद् भेदः । काव्यलक्षणं शास्त्रं कृतवन्तः । [शास्त्रानुसारेण मूर्खो]ऽपि प्रवर्तते । किं पुनर्बुद्धिमान् लोकः । तस्मात् सर्वत्र न्मतमिति । व्युत्पत्तिमभिसन्धाय काव्ये यथावद् गुणदोषपरिज्ञान[हेतुभिः शास्त्र]संगृहीतैर्गुणदोषविवेको व्युत्पत्तिः तदुपादानहानिफलाऽभिधेया । चतुवर्ग इति च नानाप्रकारः सर्वपुरुषार्थः संगृहीतः । अस्यैव तु [शास्त्रस्य प्रमेयश्च]तुर्वर्गः । तत्प्रतिपादकं शास्त्रं तादर्थ्यात् । एतावानेव च पुरुषार्थः । तत्र सर्वत्र गुणाश्च दोषाश्च ज्ञातव्याः । तत्र गुणा वस्तुतः पुरुषार्थमया एव । ततस्त उपादे[याः] उपादेयतया [च]ज्ञेयास्तथार्थेनाज्ञातानामुपादानासम्भवात् । दोषास्तु तदाभासास्तत्संभविनो हेयाः । तेऽपि हेयतया ज्ञेयास्तथा भावेनाज्ञातानां हानासंभवात् ।

  1. तुल॰ — क्रियाकल्पः काव्यकरणविधिः काव्यालंकार इत्यर्थः । — कामसूत्र [१. ३. १६] जयमङ्गला — पृः ३६.