[काव्यल]क्षणमिदानीं कर्तुमारभते—

तैः शरीरं च काव्यानामलङ्कारश्च दर्शितः ।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १० ॥

इह योनि कानिचित् काव्यानि संभवन्ति तेषां [शरीरमलङ्कारश्च] तैः पूर्वाचार्यैः लोकस्य काव्यव्युत्पत्तये क्रियाकल्पे निबद्धे । तयोः कीदृशं शरीरम् [शब्दरूपम् । अर्थे]7a नाविष्टत्वात् । यथा हि पुरुषशरीरे हारकेयूरादिरलंकारो न्यस्यते येन8 शोभते, तथा काव्यशरीरे [शब्दमयेऽप्युपमादिरर्प्य]ते, यतः शोभा । [व]क्ष्यते [च]—काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते ॥ इति ।8 पश्चादलङ्कारो वक्ष्यते । पदानां सुबन्तति[ङन्तानां आवली श्रेणी, तया] परिपूर्णं काव्यं [तस्य] श्लोकादयोऽवयवा अवान्तरवाक्यानि । कविना वक्तुमिष्टेऽभिप्रेतेऽर्थे कस्मिंश्चिद् रघुवंशादौ । व्यवच्छिन्ना गमकत्वे[न]...स्वीकृता । विशेषे[ण]... ......[शरी]रं विज्ञेयमितीष्टार्थव्यवच्छिन्ना पदावली प्रसिद्धत्वादनूद्याप्रसिद्धं शरीरं विधीयते । यथा यः.............

  1. २.१