[श]रीरं कतिविधमित्याह—

पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् ।
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ ११ ॥

यदनन्तरं लक्षणतः कथितं तच्छरीरं प्रभेदतः त्रिधैव त्रिप्रकारमेव व्यवस्थितं बोद्धव्यम् ।.........[के]वलपद्यात्मकं......[केवलगद्यात्मकं गद्यपद्योभयात्मकं च]... इत्यनेकेन प्रकारेण त्रिधैव व्यवस्थितमिति प्रकृतम् । तत्र पद्यं न ज्ञायते किंरूपमित्यत आह-पद्यं चतुष्पदीत्यादि ।.........अनूद्य पद्यमिति ज्ञा[पयति चतुष्पदी] तत् पद्यं ज्ञेयमिति । तच्च पद्यं द्विधा द्विप्रभेदमवसेयम् । कथम्—वृत्तं जातिरित्यनेन रूपेण ॥