8 शोभते, तथा काव्यशरीरे [शब्दमयेऽप्युपमादिरर्प्य]ते, यतः शोभा । [व]क्ष्यते [च]—काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते ॥ इति ।8 पश्चादलङ्कारो वक्ष्यते । पदानां सुबन्तति[ङन्तानां आवली श्रेणी, तया] परिपूर्णं काव्यं [तस्य] श्लोकादयोऽवयवा अवान्तरवाक्यानि । कविना वक्तुमिष्टेऽभिप्रेतेऽर्थे कस्मिंश्चिद् रघुवंशादौ । व्यवच्छिन्ना गमकत्वे[न]...स्वीकृता । विशेषे[ण]... ......[शरी]रं विज्ञेयमितीष्टार्थव्यवच्छिन्ना पदावली प्रसिद्धत्वादनूद्याप्रसिद्धं शरीरं विधीयते । यथा यः.............

[श]रीरं कतिविधमित्याह—

पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् ।
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ ११ ॥

यदनन्तरं लक्षणतः कथितं तच्छरीरं प्रभेदतः त्रिधैव त्रिप्रकारमेव व्यवस्थितं बोद्धव्यम् ।.........[के]वलपद्यात्मकं......[केवलगद्यात्मकं गद्यपद्योभयात्मकं च]... इत्यनेकेन प्रकारेण त्रिधैव व्यवस्थितमिति प्रकृतम् । तत्र पद्यं न ज्ञायते किंरूपमित्यत आह-पद्यं चतुष्पदीत्यादि ।.........अनूद्य पद्यमिति ज्ञा[पयति चतुष्पदी] तत् पद्यं ज्ञेयमिति । तच्च पद्यं द्विधा द्विप्रभेदमवसेयम् । कथम्—वृत्तं जातिरित्यनेन रूपेण ॥

तदपि न ज्ञायते किं वृत्तं जाति[र्वा कीदृशी]ति । तदाह—

छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः ।
सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १२ ॥

तयोर्वृत्तजा[त्योः प्रपञ्चो] विचित्रः प्रभेदः वक्त्रादिरूपः, आर्यादिलक्षणश्च सकलः सर्वो निदर्शितः लक्षणतो लक्षितश्च प्रतिपादितः । कुत्र छन्दो[विचित्यां छन्दांसि] विचीयन्ते [संगृह्यन्ते यत्र] यया वा तस्याम् । सा चेयं विद्या पद्यलक्षणस्य काव्यशरीरस्य साधिका । यदन[या] प्रसाध्यते ततः साप्यादरेण द्रष्टव्येति वक्रोक्त्या तदभ्यासे श्रोतृजनं नियोज[यति- सा विद्येति] काव्यमे[व सागरः तद्वद्]गम्भीरं यतः,

  1. २.१