10 संघातः । मन्त्राद्यवसरे च यथा[मुक्तकादिस्तथो]क्तं प्राक् । मुक्तकं......[इत्य8a]त्र परिस्फुटमेवेत्यलं विस्तरेण ॥

कः पुनः सर्गबन्धो यस्यावथवाः संघातादय इत्याह—

सर्गबन्धो महाकाव्यमुच्यते त्वस्य लक्षणम् ।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १४ ॥

यदेतत् प्रसिद्धं गुणतः सन्निवेशतश्च महाकाव्यमिति सर्गबन्धः...[स]...विज्ञय इति महाकाव्यानुवादेन सर्गबन्धो विधीयते । सर्गैः सर्गाख्यैः परिच्छेदविशेषैर्बध्यतेऽसाविति सर्गबन्धः । ततश्चानेकसर्गात्मकः सर्गबन्धो महाकाव्यम् । सर्गाश्च संघातादिचतुष्ट्यस्वभावा इति द्रष्टव्यम् ।

अथवा अन्यथावतार्यते । ननु मुक्तकादयो महाकाव्यस्यांशाः, तत् किमुच्यते—सर्गबन्धांशरूपत्वात्10 इत्याह—सर्गबन्धो महाकाव्यमिति । सर्गबन्ध इत्यपि महाकाव्यमुच्यते । ततो ये [म]हाकाव्यस्यांशास्ते सर्गबन्धस्यापीत्यविरोध इत्यर्थः । शेषं समानम् ।

सर्गबन्धस्य तर्हि किं लक्षणं यत् तदंशस्य संघातादेरपि स्यादित्याह—उच्यते त्वस्य लक्षणम् । तुशब्दो भिन्नक्रमः । अस्य तु महाकाव्यस्य लक्षणं स्वरूपमुच्यते । तुशब्देनैतदाह-संघातादीनामवयवानां पृथग् लक्षणं नोच्यते । अवयविनस्तु महाकाव्यस्य लक्षणं क्रियते । ततस्तेऽपि तल्लक्षणा एव, वस्तुतस्तदव्यतिरेकादिति । किं पुनस्तदिति तदेव वक्तुमुपक्रमते-आशीरित्यादि । तस्य महाकाव्यस्य मुखमादिः आशीरिष्टाशंसनं वा प्रयुज्यते, नमस्क्रिया प्रणामो वा, प्रबन्धसम्बन्धिनः कस्यचिद् वस्तुनोऽर्थस्य निर्देशः कथनं वा क्रियते इति विकल्पेन त्रिविधं मुखं प्रतिपत्तव्यम् । न समुच्चयेन । तत्र

श्रीमद्विशुद्धगुणरत्ननस[मि]द्धमूर्त्ति-र्ब्रह्मेन्द्रशेखरितपादसरोजरेणुः ।
  1. १.१३