11
शौद्धोदनिः सकलसत्त्वहितैकदीक्षःपायादपायबहुलाज्जगदाविमुक्तेः ॥

इत्येवंविधा आशीः ।

नमस्त्रयाय रत्नानां त्रैलोक्य[महिता]त्मने ।
स्थिताय सुरतद्वैरिनरनागेन्द्रमौलिषु ॥

इत्येवंविधा नमस्क्रिया । वस्तुनिर्देशस्तु श्रियः पतिः श्रीमति11 इत्यादिः प्रसिद्ध एव ।

गद्यमिश्रबन्धयोरप्येतदेव मुखं द्रष्टव्यमिति ॥

किमाश्रयं तदित्याह—

इतिहासकथोद्भूतमितरद्वा सदाश्रयम् ।
चतुवर्गफलायत्तं चतुरोदात्तनायकम् ॥ १५ ॥

इतिहासः पुरावृत्तम्, तत्प्रतिपादिका कथा रामायणादिका इतिहासकथा तत उद्भूतं जातम्, इतिहासकथाश्रयमित्यर्थः । का[व्यमि]ति वक्ष्यति । किमितिहासकथाश्रयमेव महाकाव्यं कर्तव्यम् । नेत्याह-इतरदिति । इतिहासकथाश्रयादपरं वा । नात्र नियमः, विशिष्टाश्रयमेव तु तत् कर्तव्यमिति- सदाश्रयमिति । सन् शोभनः अधिगुणराजचरितादिलक्षणा आश्रयो भित्तिर्यस्य तत्तथा । अनेन महाकाव्यस्य द्विधाश्रयसम्पदुक्ता ।

चतुर्विषयत्वं प्रतिपादयन्नाह—चतुर्वर्गफलायत्तम् चतुर्णां धर्मार्थकाममोक्षाणां वर्गः समूहः, स एव फलं पुरुषार्थत्पत्वात् । तत्राऽभ्युदयनिःश्रेयसहेतुर्धर्म12 । विद्याभूम्यादीनां यथान्यायमर्जनमर्जितानां च रक्षणमर्थः । निरपायो विषयोपभोगः कामः । [त्रैकालिक]सांसारिकदुःखनिवृत्तिर्मोक्षः । विस्तरस्तु त[त्त]च्छास्त्रेभ्यो द्रष्टव्यः । तस्मिन्नायत्तं प्रतिबद्धं तद्विषयत्वात् । अत्र न नियमोऽवश्यं चत्वारोऽपि पुरुषार्था निबध्यन्त इति । यथासंभवं क्वचिच्चतुर्वर्गः, [क्वचि]त् त्रिवर्ग इति

  1. शिशुपालवधे १.१
  2. तुल वै॰ सू॰ १. १. २.