पुनर्विशेषयन्नाह—

विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १७ ॥

विप्रलम्भा विरहाः । अयं विप्रलम्भात्मकः श्रृङ्गारः । विवाहाः शास्त्रोक्ता गन्धर्वादयः । कुमाराणामुदया जन्मानि वधनानि च बाल्यादिवयःप्राप्तिलक्षणानि । तैश्चालंकृतम् । मन्त्रः क्रियारम्भदेशकालविभागपुरुषद्रव्यसम्यग्विनिपातक्रियाकार्यसिद्धिलक्षणपञ्चाङ्गात्मककार्यनिश्चयः । यदाह माघः—

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ।
16 13 इति । विस्तरस्तु तच्छास्त्रात् । दूतः वाग्मित्वादिगुणयुक्तः सन्धानप्रवृत्तः पुरुषः । दूते सन्धानमायत्तं चरे चर्या प्रति[ती]ष्ठता ।17 इति वचनात् । चरविशेषश्चायम् । प्रयाणं संग्रामादिनिमित्तं गमनम् । आजिविंग्रहः सन्ध्यभावे । अभ्युदयं विपक्षविजयादिलक्षण उत्सवः । नायकस्य प्रतिपक्षस्य । एषाम[प्या]नुपूर्वी दृश्यते । तैरपि ।

  1. शिशुपालवधे २.२८
  2. कामन्दकीयनीतिसारे १२.३३