अलंकृतमसंक्षिप्तरसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १८ ॥

अलंकृतं विभूषितम् । असंक्षिप्ताः 9a भूयांसः । रसाः श्रृङ्गारवीरादयः । भावा रत्युत्सवादयः । विस्तरस्तु तच्छास्त्रात् । तैर्निरन्तरं व्याप्तम् । सर्गैरुपेतमिति18 वक्ष्यति । अनतिविस्तीर्णैर्नातिमहद्भिर्मध्यमैरित्यर्थः । श्रव्यं श्रुति[सु]भगं वृत्तं पद्यमिन्द्रवज्रादिकं येषां तैः । सुसन्धिभिः शोभनः स्पष्टः सन्धिः परस्परसङ्गतत्वम् अन्योऽन्यव्यपेक्षा अर्थतो येषां तैः । परस्परसंबद्धार्थाः सर्गाः कर्तव्याः । नत्वयःशलाकाकल्पा इत्यर्थः ॥

  1. १.१९