13 इति । विस्तरस्तु तच्छास्त्रात् । दूतः वाग्मित्वादिगुणयुक्तः सन्धानप्रवृत्तः पुरुषः । दूते सन्धानमायत्तं चरे चर्या प्रति[ती]ष्ठता ।17 इति वचनात् । चरविशेषश्चायम् । प्रयाणं संग्रामादिनिमित्तं गमनम् । आजिविंग्रहः सन्ध्यभावे । अभ्युदयं विपक्षविजयादिलक्षण उत्सवः । नायकस्य प्रतिपक्षस्य । एषाम[प्या]नुपूर्वी दृश्यते । तैरपि ।

अलंकृतमसंक्षिप्तरसभावनिरन्तरम् ।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १८ ॥

अलंकृतं विभूषितम् । असंक्षिप्ताः

  1. कामन्दकीयनीतिसारे १२.३३