9a भूयांसः । रसाः श्रृङ्गारवीरादयः । भावा रत्युत्सवादयः । विस्तरस्तु तच्छास्त्रात् । तैर्निरन्तरं व्याप्तम् । सर्गैरुपेतमिति18 वक्ष्यति । अनतिविस्तीर्णैर्नातिमहद्भिर्मध्यमैरित्यर्थः । श्रव्यं श्रुति[सु]भगं वृत्तं पद्यमिन्द्रवज्रादिकं येषां तैः । सुसन्धिभिः शोभनः स्पष्टः सन्धिः परस्परसङ्गतत्वम् अन्योऽन्यव्यपेक्षा अर्थतो येषां तैः । परस्परसंबद्धार्थाः सर्गाः कर्तव्याः । नत्वयःशलाकाकल्पा इत्यर्थः ॥

सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् ।
काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥ १९ ॥

भिन्नः प्रकृतवृत्तापेक्षया अन्यवृत्तलक्षणः सर्गाणामन्तोऽवसानं येषाम् । किं क्वचिदेव सर्गे नेत्याह-सर्वेषु सर्गेषु । सर्गाः प्रस्तुतपद्यापेक्षया वृत्तान्तरैः समापनीया इत्यर्थः । तै रेवंरूपैः सर्गैरुपेतं युक्तम् । सदलंकृति सत्यः शोभनाः सुप्रयुक्तत्वात् । नत्वलंकृतयः स्वरूपेण शोभना नाम । अलंकृतयः शब्दार्थालंकाराः यस्य यस्मिन् वा तत् तथा । सत्यो वा विद्यमाना अलंकृतयो यस्य तदेवंविधं काव्यं लोकरञ्जनं जायते । लोकं रञ्जयति गुणसंपदा परितोषयति इति लोकरञ्जनम् । ततश्च प्रतिग्राहकभूयस्त्वात् कल्पान्तरं तिष्ठन्तीति कल्पान्तरस्थायि.........[जा]यते भवति प्रवचनवत् यावज्जगत् प्रवर्तत इत्यर्थः ॥

ननु सर्वत्र महाकाव्ये चतुर्वर्गादीन्यङ्गानि यथोक्तानि न दृश्यन्ते । कानिचिदेव क्वचिद् [दृश्यन्ते] । तन्न किञ्चिदिदानीं महाकाव्यं स्यादित्याह—

  1. १.१९