अत्रेदं चिन्त्यते । कथमत्र क्रमः । किं पूर्ववर्णितेन नायकेन रिपोर्जयात् नायकस्योत्कर्षः कथ्यते । अथ प्राग्वर्णि[तस्य रि]पोर्नायकेन जयात् तदुत्कर्षः ख्याप्यत इति । अत्र भामहः पूर्वकमेव क्रममिच्छति, द्वितीयं तु द्वेष्टि—

नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः ।
न तस्यैव वधं कुर्यादन्योत्कर्षाभिधित्सया ॥
यदि काव्यशरीरस्य न स व्यापितयेष्यते ।
न चाभ्युदयभाक् तस्य मुधाऽऽदौ ग्रहणं स्तवे ॥
19

इति । दण्डी तु प्रकारद्वयमपि युक्तमिच्छन्नाह—

गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ २१ ॥

ना[यकं प्रति]पक्षं प्राक् प्रथममुपन्यस्याभिधाय गुणतो गुणैः शौर्यादिभिरभिलक्षितं नायकं पूर्व वर्णयित्वेत्यर्थः । तेन पूर्ववर्णितेन नायकेन विद्विषां विपक्षाणां निराकरणमभिभ[वः पराज]यः कथ्यत इति एष मार्गः क्रमः प्रकृत्या सुन्दरः शोभनः । स्वरूपसिद्ध ऋजुरयं क्रम इति मन्यते ॥

  1. काव्यालङ्कारे १.२२-२३