15 रिपो[र्नायकवि]पक्षस्यापि न केवलं प्रतिपक्षस्य वंशोऽन्वयः वीर्य विक्रमः श्रतं शास्त्रकौशलं आदिर्येषां त्यागसत्यक्षान्त्यादीनां तानि गुणवस्तूनि वर्णयित्वा प्रकाश्य [तस्य] वर्णितवंशादेर्विपक्षस्य जयाद् अभिभवात् कारणात् प्रतिपक्षेण, नायकस्य प्रतिपक्षस्य उत्कर्षो विशेषः तस्य कथनमभिधानं यत्, तच्च नोऽस्मान् धिनोति प्रीण्यति । चकारात् पूर्वकं च । अयमपि क्रमोऽस्माकं प्रिय एवेत्यर्थः ।

अयमभिप्रायः—काव्यं हि वक्रोक्तिप्रधानम् । अयं च क्रमः वक्रोक्तिस्वभावः, यद्विपक्षवर्णनद्वारेण प्रतिपक्षोत्कर्षकथनम् । एवं नामायमुक्तृष्टः, यदेवंगुणोऽपि विपक्षो[ऽनेन] निर्जित इति । अन्यश्च वर्णितोऽन्यस्योत्कर्षः ख्याप्यत इति चतुरोऽयं [न]यः ।तस्मादयमस्मान् धिनोतीति । काव्येषु हि द्वावपि वर्ण्येते केवलं पौर्वापर्ययोर्विवादः । अत्र हि प्रतिपक्षोत्कर्षो विधेयः । स चोभयथाऽपि गम्यत एव । हयग्रीववधादौ चायं [प्र]