यत् पूर्वं काव्यशरीरं त्रिविधोद्दिष्टं पद्यं गद्यं च मिश्रं चेति22 तत्रैता[वता] पद्यं निर्दिष्टम् । गद्यमधिकृत्याह—

अपादः पदसंतानो गद्यमाख्यायिका कथा ।
इति तस्य प्रभेदौ द्वौ

न विद्यते पादः पादव्यवस्था यस्मिन्निति न पादो वा अपादः पादस्वभावो न भवती-16 त्यर्थः । एवलक्षणं गद्यम् । पद्यं तु पादस्वभावः पदसन्तान इत्यसङ्करः । कतिविधं तदित्याह—आख्यायिकेत्यादि । तस्य गद्यस्य भेदौ प्रकारौ द्वौ विज्ञेयौ । कथम् । आख्यायिकाकथेत्येवं[रू]पौ । [न] अनयोर्भेदः । भामहमतेन भेदमाह—

तयोराख्यायिका किल ॥ २३ ॥
  1. १.११