16 त्यर्थः । एवलक्षणं गद्यम् । पद्यं तु पादस्वभावः पदसन्तान इत्यसङ्करः । कतिविधं तदित्याह—आख्यायिकेत्यादि । तस्य गद्यस्य भेदौ प्रकारौ द्वौ विज्ञेयौ । कथम् । आख्यायिकाकथेत्येवं[रू]पौ । [न] अनयोर्भेदः । भामहमतेन भेदमाह—

तयोराख्यायिका किल ॥ २३ ॥
नायकेनैव वाच्यान्या नायकेनेतरेण वा ।
स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसतः ॥ २४ ॥

तयोराख्यायिकाकथयोरयं भेदः किलेति परमतसूचने । आख्यायिका नायकेनैव [स्वयम्]