18 कारणमित्यर्थः । अन्यथैवंविधस्य भेदस्य सर्वत्र सुलभत्वात् तावता विजातोयत्वेऽतिप्रसङ्गः स्यादिति भावः । वाच्यं हि द्वयमप्येतत् । तत् केनाप्युच्यतां स्वयं परेण[वा] यथायोगम् । किमेतावता जातेर्भेदः स्यात् । अर्थतस्त्वेकैव जातिरियं नाममात्रात्तु भिद्यते । यद्वक्ष्यति—एका जातिः संज्ञाद्वयाङ्किता27 । एवं तर्हीदमनयोर्भेदकारणम्, यत्र वक्त्रापरवक्त्रयो पद्ययोर्भविष्यदर्थसूचकयोः प्रवेशः साश्वासा च या सा आख्यायिका । तद्विपरीता कथेति । तदुक्तम्—वक्त्रं चापरवक्त्रं च कालभाव्यर्थशंसि च ।28 इति । तथा—साश्वासाख्यायिका मता ।29

न वक्त्रापरवक्त्राभ्यां युक्ता नाश्वासवत्यपि ।
संस्कृतासंस्कृता चेष्टा कथाऽपभ्रंशता तथा ॥ इति ॥
30

तदेवं तदुद्भाव्य परिहरन्नाह—

वक्त्रं चापरवक्त्रं च साश्वासत्वं च भेदकम् ।
चिह्नमाख्यायिकायाश्चेत् प्रसङ्गेन कथास्वपि ॥ २६ ॥
आर्यादिवत् प्रवेशः किं न वक्त्रापरवक्त्रयोः ।
भेदश्च दृष्टो लम्भादिराश्वासो वास्तु किं ततः ॥ २७ ॥

वक्त्रं चापरवक्त्रं च पद्यद्वयं सहाश्वासेन वर्त्तते तद्भावः तत्त्वम् । तच्चैतत् त्रयम् आख्यायिकायाश्चिह्नं लक्षणं भेदकं कथायाः सकाशाद्विशेषकं चाप्यस्यास्य कथायामभावादितिचेन्मन्यसे, ननु यतः [प्रसङ्गेन] तत्र गद्याधिकारात् प्रस्तावेन भाव्यर्थसूचनादिलक्षणेन हेतुभूतेन नाधिकारितया वक्त्रापरवक्त्रयोः कथास्वपि आख्यायिकावत् किं कस्मान्न प्रवेशः न प्रयोगः स्यादेवेत्यर्थः । किंवत् ? आर्यादिवत् ।

  1. १. २८
  2. काव्यालङ्कारे १. २६
  3. काव्यालङ्कारे १. २५
  4. काव्यालङ्कारे १. २८