12a र्यादेः । आख्यायिकायामपि हि प्रसङ्गेन तयोः प्रवेशः नाधिकारितया, [तत्र] गद्याधिकारात् तथा कथायामपि इति नेदं भेदकमसाधारणं चि[न्तनीयम् । लम्भ]स्तर्हि भेदकं चिह्नमस्तु कथायां तस्याभावात् । अत्राह—भेदश्चेत्यादि । लम्भादिर्भेदो विशेषः । आदिग्रहणात् यव[?]विश्रामादिव्यवहारः आख्यायिकाविषयः [कथायाम]पि दृष्टः । ततश्चाश्वासोऽपि यदि भवेत् को नामात्र दोषः । लम्भादिर्वा भेदो भवतु, आश्वासो वा व्यवहारः, किं ततः तस्माद् व्यवहारमात्रात्, किंजातीयत्वमनयोर्भवेत् । नैवार्थभेदः, अभेदादित्यर्थः । परिच्छेदा हि तत्र सम्पन्नाः कर्तव्या इतीदमत्र तात्पर्यम्, विपन्नानां हेयत्वात् । ते च लम्भादिव्यपदेश्या वा भवन्तु, आश्वासव्यवहार्या वेति स्वातन्त्र्यमत्र कवेः, विशेषाभावात् ।

ननु भामहकृतो निषेधोऽस्ति ।न वक्त्रापरवक्त्राभ्यां युक्तो नाश्वासवत्यपि ।31 कथेति ।

ननु दण्डिकृतो विधिरस्ति, लम्भादिर्वाश्वासो वा भवत्विति । तदप्रमाणमिति चेत् । भामहकृतो निषेधः प्रमाणमिति कोशपानमत्र करणीयं स्यात् । द्वयोरपि शास्त्रकारत्वात् प्रामाण्यम्, न वा कस्यापि । मतभेदस्तत्र भवत्विति चेत् ? अस्तु तत्किमस्थानाभिनिवेशः क्रियते । युक्तिपुरस्कृतं तु दण्डिमतं दृश्यत इति ॥

तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ २८ ॥

यत एवं निरूप्यमाणो नानयोः कश्चिज्जातिभेदो लभ्यते अन्यत्र संज्ञाभेदात्, ततस्तावदेका जातिरियं गद्यजातिः । आख्यायिकेयं कथेयमिति अनेन संज्ञाद्वयेन द्वाभ्यां नामभ्याम

  1. काव्यालङ्कारे १. २८