20 संज्ञाभेदनिमित्तमिति चेत्—किं वै सर्वा नैमित्तिकी संज्ञा, यादृच्छिक्यपि हि सा दृश्यते, मण्डपादिवत् । निमित्तं वा किंचिन्मृग्यतां यदि तेन विना दौःस्थ्यम् । नन्वपरेऽपि गद्यप्रभेदा दृश्यन्ते, किं ते नोक्ता इति चेदाह—अत्रैवेत्यादि । शेषां आख्यानपर्याया ये सम्भवन्ति आख्यानजातयः, आख्यानकप्रभेदाः ता अत्रैवानयोरेव कथाख्यायिकयोरन्तर्भविष्यन्ति गद्यजातित्वेनाभेदात् लक्षणतः । चकारः [अन्]उक्तसमुच्चये । तस्मात् पृथक् तासां लक्षणं नोक्तम् । तल्लक्षणेनैव कृतलक्षणत्वादित्यर्थ इति ॥

अयं तर्हि विशेष आख्यायिकायाः । सा हि—कन्याहरणसंग्रामविप्रलम्भोदयान्विता ।32 आख्यायिका न कथेति भामहः । तत्राह—

कन्याहरणसंग्रामविप्रलम्भोदयादयः ।
सर्गबन्धसमा एव न ते वैशेषिका गुणाः ॥ २९ ॥

कन्याया हरणं संग्रामस्तन्निमित्तोऽन्यो वा, विप्रलम्भो वियोगः, उदयोऽभ्युदयः रिपुविजयादिलक्षणः । आदिशब्देन मत्ततासुरतोत्सवादिपरिग्रहः । ननु भामहेन तावदुक्तम्—कन्याहरणसंग्रामविप्रलम्भोदयान्विता । इति ।33 तत्किमपि सूच्यते । एवं मन्यते । सोऽपि नियमो [नापो]ह्यते, अधिकदर्शनात् । उपलक्षणं वा तद्वचनं, तेऽपि गुणाः [अ]थ न वैशेषिकाः, कथायाः सकाशादाख्यायिकां न भेदयन्तीत्यर्थः । विशेषा [भे]दाः [यैः] कथ्यन्ते आख्यायिकायाः, प्रयोजनमेषामिति वैशेषिकास्तथा न भवन्तीत्यर्थः । किं कारणम् । यतः सर्गबन्धेऽपि समानाः । सा[धारणाः, तेषां त]त्रापि दर्शनात् । तद् यदि [कथा]

  1. काव्यालङ्कारे १. २७
  2. काव्यालङ्कारे १. २७