13b देतदेव स्थितम्—तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता इति ।35 स्यादेतत्, आख्यायिका संस्कृतेनैव दृश्यते । आख्यायिकापि भाषान्तरेण दृश्यते, असंस्कृतापेक्षयेति । किं न कथा । अथ संस्कृतापेक्षया भाषान्तरेण [न] दृश्यते आख्यायिका सर्वसंस्कृता कथाप्येवमिति माभूत् कथा । अथ मिश्रापि कथा दृश्यते नाख्यायिका । तथा अमिश्रा सर्वसंस्कृता साख्यायिका स्यात्, कादम्बर्यादिवत् ।

  1. १.२८