21 यत्र तर्हि कवेरभिप्रायेण कथनमङ्कनं किञ्चिद् दृश्यते सा आख्यायिका तदन्या कथेति भामहः ।कवेरभिप्रायकृतैरङ्कनैः कैश्चिदङ्किता इति ।34 तदेतदुभयं परिहरन्नाह—

कविभावकृतं चिह्नमन्यत्रापि न दुष्यति ।
मुखमिष्टार्थसंसिद्धौ किं हि न स्यात् कृतात्मनाम् ॥ ३० ॥

कवेः प्रयोक्तुर्भावेनाभिप्रायेण कृतं प्रयुक्तं चिह्नमङ्कनम् अन्यत्रापि कथायामपि सर्गबन्धेऽपि वा, न केवलमाख्यायिकायाम् न दुष्यति न दोषाय कल्पते निषेधाभावात् ।

ननु निषिद्धमेव [तद्] भामहेन कथायाम्, आख्यायिकामेव कबिभावकृतचिह्नविधानात् । उक्तमत्र । तेनापि च नियमो न कृतः काचिदङ्कितेति वचनात् । तस्मादिदमपि सर्गबन्धादिसाधारणं न समर्थयति कथात आख्यायिकाया भेदम् । किरातादौ च लक्ष्म्या ग्रहणादिकं कविभावकृतं चिह्नं दृश्यते, स्यादेतत् आख्यायिकायामिति । तदसत् । यस्मान्मुस्वमिष्टार्थसंसिद्धौ किं हि न स्यात् कृतात्मनाम् । कृतः संस्कृतः व्युत्पन्न आत्मा चित्तं येषां, कृतात्मनां सुधियाम् । इष्टस्यार्थस्य स्वनामाङ्कनादेरन्येनापदेशेन विदग्धेन क्रमेण किं नाम मुखमुपायो न स्यात् । सर्वमेव हि तेषामिष्टसिद्धिद्वारीभवति कौशलविशेषात् । तस्माद् यदीच्छन्ति कथायामन्यत्र वा सर्वत्रेदृशं कर्तुमुपायज्ञास्ते [कु]र्वन्त्येव, न चेत् न क्वचिदपीति । नेदमपि भेदकं चिह्नम् । तस्मा

  1. काव्यालङ्कारे १. २७