ननु सामान्यभाषापि प्राकृतप्रकारोस्ति । यदुक्तं हरिवृद्धेन—

अण्णेहि अ एएहि अ सरिसं च अ होइ सामण्णे इति ।
अन्योऽस्तीत्याह—

सौरसेनी च गौडी च लाटी चान्या च तादृशी ।
याति प्राकृतमित्येव व्यवहारेषु सन्निधिम् ॥ ३५ ॥

सूरसेनाश्रया सौरसेनो, गौडाश्रया गौडी, 37लाटाधिष्ठाना लाटी । अन्या च पाञ्चालीमागधीत्यादिका तादृशी तथाविधा एवंप्रकारा सामान्यभाषा प्राकृतमित्यनेनैव नाम्ना नापभ्रंश इत्यनेन सन्निधिं प्रयोगं याति । कुत्र, व्यवहारेषु नाटकादिषु । व्यवह्रियते [शि]क्षणं व्यवहारः [तत्र] प्रवर्तते एभिरिति सा च मुसुमुरिअ मूअच्छि15b अच्छिकेत्यादिका यथोक्तं हरिवृद्धेन । एवं कृत्वा चतस्रः प्राकृ[त]मय्यो भाषा दर्शिताः भवन्ति । तदुक्तम्— 25

सद्दभवा सद्दसमा देसीत्ति अ तिण्णिया अ अण्णेहि ।
सामण्णया अइ सहि आया अअय इतराणि आउ ॥ इति ।[?]
विस्तरस्तु तच्छास्त्रात् ॥

  1. लात इत्यादर्शे ।