25

सद्दभवा सद्दसमा देसीत्ति अ तिण्णिया अ अण्णेहि ।
सामण्णया अइ सहि आया अअय इतराणि आउ ॥ इति ।[?]
विस्तरस्तु तच्छास्त्रात् ॥

अपभ्रंशः कतम इत्याह—

आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः ।
शास्त्रे तु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ ३६ ॥

आभीरा वाहिकाः । आदिशब्देन ढक्कादिपरिग्रहः । तेषां गिरो भाषा अपभ्रंश इति, अपभ्रंशनाम्ना व्यपदिश्यन्त इति स्थितिर्व्यवस्था । कुत्रेत्याह—काव्येषु गद्यपद्यमिश्रात्मकेषु कविप्रयोगेषु । अपभ्रंशोऽपि प्राकृतवच्चतुर्धा स्मर्यते । यदुक्तम्—

शब्दभवं शब्दसमं देशीयं सर्वशब्दसामान्यम् ।
प्राकृतवदपभ्रंशं जानीहि चतुर्विधमाहितम् ॥ इति

त्रिधाप्याम्नायते । यथोक्तम्—अपरं त्रिप्रकारत्वं शास्त्रस्थित्या प्राकृतमपभ्रंशः पैशाचिकं चेति ॥

संस्कृतं वाङ्मयं कतमदिति सर्वं दर्शयन्नाह—

संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत् ।
ओसरादिरपभ्रंशो नाटकादि तु मिश्रकम् ॥ ३७ ॥

यत् सर्गबन्धादि तत्सर्वं संस्कृतं वाङ्मयं वेदितव्यम् । आदिशब्देन पृथक् संघातादिपरिग्रहः । यत् स्कन्धकादिवाङ्मयं तत्सर्वं प्राकृतं वेदितव्यम् । अत्रापि आदिशब्देन गाव्याद्युपादानं सेतुबन्धादिवद् द्रष्टव्यम् । 38ओसरादीनि काव्यानि यानि तानि सर्वा[ण्य]पभ्रंशो विज्ञायताम् । तानि वलयकरम्बकादीनि । आदिशब्देन रासकादिपरिग्रहः । नाटकादि तु यत्तत् मिश्रकं संस्कृतादिभिर्वेदितव्यम् । आदिशब्देन भाणकादिपरिग्रहः ॥

कथादिकं कथमित्याह—

  1. हेसरादीति आदर्शे