16a पठ्यते विरच्यते । संस्कृतेन चेति गतार्थमपि पृथगुक्तम् । प्राधान्यख्यापनार्थं न तु केवलार्थम्, प्राकृतादेरत्रातिपृथगभिधानप्रसङ्गात् । यथा संस्कृतप्राकृतापभ्रंशाख्यं भाषात्रयं शुद्धमपि प्रयुक्तं दृश्यते, न तथा पैशाचिकम् । भाषानुगतमेव तु दृश्यते चेदाह । भूतभाषामयीत्यादि । भूतभाषा पैशाचिकवाक् तद्विकारस्तन्मयीं शुद्धपैशाचिकाम् । तुशब्दोऽर्थान्तरविवक्षायाम् । बृहत्कथामाहुः कथयन्ति तद्विदः । केवलपैशाचिकी बृहत्कथा दृश्यते इत्यर्थः । किंविशिष्टामित्याह—अद्भुतार्थामिति । अद्भुतः प्रकृष्टो नानाविधः अपूर्वः अर्थोऽभिधेयं यस्यां तामाहुरिति प्रकृतं प्रधानकथनं चैतत् । अतएवाद्भुतार्थामिति । न त्वयमेव, अन्यस्या अपि भूतभाषामय्या रत्नप्रभादिकाया दर्शनात् ॥

यदेतत्त्रिविधं काव्यशरीरं भाषाभेदाच्चतुर्विधमुक्तम्, तदेव द्विधाविनियोगभेदाद् दर्शयन्नाह—

लास्यच्छलिनशम्यादि प्रेक्षार्थमितरत्पुनः ।
श्रव्यमेवेति सैषापि द्वयी गतिरुदाहृता ॥ ३९ ॥

लास्यं श्रृङ्गारप्रधानं नृत्तम् । तदुक्तम्—

ताण्डवमशक्नुवत्या नर्त्तितमाविद्धकरणसंकीर्णम् ।
प्रियकारिणा प्रियाया हरेण लास्यं पुरा सृष्टम् ॥ इति ।

छलिनं [छद्म]प्रधानं नृत्तम् । लस्या तालविशेषप्राधान्यम् । सा च दक्षिणपाणिपातलक्षणा । यथोक्तम्—

सव्यहस्तनिपातश्च [ल]स्या तालस्तु वामकः ।
करयोरुभयोः पातः सन्निपात इति स्मृतः ॥

तत्प्रतिपादकं काव्यं लास्याद्यक्तं तादर्थ्यात् । आदिशब्देन च स्कन्धकादि-