17b ते । निजत्वाद् देशभाषादिवत् वैदर्भगौडीय इति । एतावत्तु स्यात् ।

किं लक्षणौ तौ को वाऽनयोः 43प्रतिविशिष्ट इति तच्च मार्गद्वयमिदानीं विभज्यते । प्रतिविशेषे तु सन्तः प्रमाणमिति विभजन्नाह—

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ ४१ ॥

  1. प्रतिविशिष्टो भेदकधर्म इत्यर्थः ।