29 श्लिष्टिः श्लेषो वार्थगौरवम् । प्रसत्तिः प्रसादः प्रकाशार्थता । समता पद्यापेक्षया [बन्धतुल्यतो]पादानम् । माधुर्यं शब्दे अर्थे च रसवत्ता । सुकुमारता अपरुषाक्षरबाहुल्यम् । अर्थस्याभिधेयस्य व्यक्तिः शब्देन न्यायेन वा ग्रहणम् । अन्यथा दुष्प्रापत्वाद् वक्ष्यति—नहि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी । इति ।44 उदारत्वं प्रकृष्टता केनचिदर्थेन सनाथत्वम् । ओजः समासवृत्तिबाहुल्यम् । कान्तिः सर्वलोकमनोहरत्वम् । समाधिर्भगवत्प्रतीत्यनुसारिणी गौणार्थता ।

इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः ।
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ ४२ ॥

इत्येवंरूपा दश गुणाः शब्दालङ्कारस्वभावाः प्राणाः जीवितं स्मृता दृश्यन्त इति यावत् । कस्य वैदर्भमार्गस्य दाक्षिणात्यकाव्यपद्धतेः सम्बन्धिनः । तैर्हि वैदर्भमार्गः काव्यशरीरं प्राणिति । तदभावे त्वसन्नेव । ततश्च शब्दालङ्कारभूतः श्लेषादिदशगुणात्मकः काव्यरचनाविशेषो दाक्षिणात्यानां स्वाभाविको वैदर्भमार्ग इत्यर्थः सम्पद्यते । एवंरूपस्तावद्वैदर्भमार्गः । गौडीयः किंरूपः, तद्विपरीतस्वभाव इति दर्शयन्नाह—एषामित्यादि । एषां श्लेषादीनां विपर्ययो विपक्षोऽश्लेषादिः लक्ष्यते दृश्यते, कुत्र ? गौडानां वर्त्मनि काव्ये । अर्थव्यक्त्या देः कस्यचिद् गुणस्य साधारणत्वात् प्राय इत्याह । बाहुल्येनेत्यर्थः । प्रायोग्रहणसंगृहीतं साधारणगुणं स्वयमेव यथावसरं दर्शयिष्यति । स्वाभाविकस्तेषामेषा रच

  1. १.७५