यदि शैथिल्यं दुष्टमेवंविधं गौडैरादृतम्, तदिहापि केनचित् गुणेन भवितव्यम् अन्यथा सर्वथा निर्गुणं कथमाद्रियत इत्याह—

अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् ।
वैदर्भैर्मालतीदाम लंघितं भ्रमरैरिति ॥ ४४ ॥

तदिति शिथिलमिष्टमादृतं गौड़ैरनुप्रासो माधुर्यसंगृहीतः शब्दालङ्कारस्तस्य तस्मिन् बुद्ध्याऽनुप्रासः शब्दरसो गुणोऽस्तीति तैरेवंविधमिष्टम् । शैथिल्यं तु दोषो न दृष्टः । अनुप्रासधियेत्यनेन चैतत् कथयति । अनुप्रासोऽपि गौडानामेवंविधो यः शैथिल्यमा18b वहति । पारुष्यं चेति । यद्वक्ष्यति—

इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति ।
अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥
46 इति दाक्षिणात्येष्टं पश्चाद् दर्शयिष्यति । श्लेषमुदाहरन्नाह—वैदर्भैः दाक्षिणात्यैर्मालतीदाम लंघितं भ्रमरैरिति ईदृशं श्लिष्ट[मिष्ट]मिति प्रकृतम् । कुतः ? बन्धस्य रचनायागौरवात् शैथिल्यात् कारणात् । अर्थस्तु पूर्वक एव । नन्वत्रापि दोषोऽस्ति माधुर्यलक्षणस्यानुप्रासस्याभावात् । अमाधुर्यं लक्षणम् (?) ॥

  1. १.६०