11

॥ सामान्यदूषणम् ॥


82a
व्यापकं नित्यमेकं च सामान्यं यैः प्रकल्पितम् ।

मोहग्रन्थिच्छिदे तेषां तदभावः प्रसाध्यते ॥

कथमिदमवगम्यते परस्परविलक्षणक्षणेषु1 प्रत्यक्षसमीक्ष्यमाणेष्वभिन्न
धीध्वनिप्रसवनिबन्धनमनुयायिरूपं सामान्यं न मान्यं मनीषिणामिति ?
साधकप्रमाणविरहाद् बाधकप्रमाणसंभवाच्चेति ब्रूमः ।


तथा हि यदिदं सामान्यसाधनमनुमानमभिधीयते परैः,

यदनुगताकारं ज्न्ँआनं तदनुगतवस्तुनिबन्धनम् ।

यथा बहुषु पुष्पेषु स्रक् स्रगिति ज्न्ँआनम् ।

82b अस्ति च परस्परसंपर्कविकलकलासु कार्यादिव्यक्तिष्वनुगता
कारं विज्न्ँआनं तदनैकान्तिकतादोषाक्रान्तशरीरत्वान्न तद्भावसाधनायालम् ।
यतो भवति बहुषु पाचकेषु पाचकः पाचक इति एकाकारपरामर्शप्रत्ययः ।
न च तेष्वनुगतमेकं वस्तु समस्ति । तद्भावे हि प्रागेव तथाविधप्रत्ययोत्पाद
प्रसङ्गो दुर्वारप्रचारः ।


क्रियोपकारापेक्षाणां स्वलक्षणानां सामान्यव्यन्ँजकत्वादयमदोष इति
चेत् ? नैतदस्ति । नित्यानामनाधेयातिशयतयानुपकारिणि सहकारिण्यपेक्षा
योगात् । सातिशयत्वे वा प्रतिक्षणं विशरारुशरीरत्वात् क्रिया कुत इति
दोषो दुष्परिहरः । क्रियानिबन्धनत्वात् पाचकेष्वनुगताकारप्रत्ययस्य नानै
कान्तिकतादोष इत्यपि वार्तम् । प्रतिभेदं भिद्यमानानां कर्मणां तन्निबन्धनत्वा
योगात् । भिन्नानामप्यभिन्नाकारज्न्ँआननिबन्धनत्वे व्यक्तीनामपि तथाभावो
न राजदण्डनिवारितः । ततश्च सामान्यमेव नोपेयं स्यादिति मूलहरं
पक्षमाश्रयता देवानांप्रियेण सुष्ठु अनुकूलमाचरितम् । अनेनैव न्यायेन क्रिया
कारकसंबन्धमभिन्नज्न्ँआननिबन्धनमुपकल्पयन् प्रतिक्षिप्तः ।



  1. °क्षणलक्षणेषु R