352 एव तुल्येतिवृत्तता दृष्टान्तदर्ष्टान्तिकयोरनुगम्यते तदृजु निदर्शनम् । यत्र तु पर्यवसितायामुक्तौ सहृदयपर्यालोचनया तद्वक्रम् । तदेतदाह—ऋजु वक्रं चेति । तेन निदर्शनस्य षड् भेदाः ॥

तेषु पूर्वमृजु यथा—

‘उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।
विभावयति भूतीनां फलं सुहृदनुग्रहः ॥ ८४ ॥’

अत्र ऋजूत्त्क्यैव पूर्वं दृष्टान्तः पश्चाद्दार्ष्टान्तिकं प्रदर्शितमितीदमृ- जुपूर्वं च निदर्शनं सूर्यदृष्टान्तेन विभूतीनां सुहृदनुग्रहः फलमिति ज्ञापयति ॥

सूर्यदृष्टान्तेनेति । ऋद्धिभिः सुहृदनुगृह्यत इति सिद्धोऽर्थः, किंतु तदेतदेव तासां फलमिति विशेषमभिधातुं सूर्यदृष्टान्तोपन्यासः । अत्र समृद्धताफलं सुहृत्त्वमनुग्रहत्वं चेति शब्दत एव सूर्यादिषु दृष्टान्तदार्ष्टान्तिकाभिमतेषु प्रतीयत इति ऋजुत्वमित्यर्थः ॥

तदेवं वक्रं यथा—

‘पाणउडी अवि जलिउण हुअवहो जलइ जण्णवाउम्मी ।
णहु ते परिहरिअव्वा विसमदसासण्ठिआ पुरिसा ॥ ८५ ॥’
[पानकुटीमपि ज्वालयित्वा हुतवहो ज्वलति यज्ञवाटमपि ।
नहि ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः ॥]

अत्रापि पूर्वं दृष्टान्तः पश्चाद्दार्ष्टान्तिकम् । किंतु यथा पूर्वत्रोदयमानः सविता सुहृत्पद्मेषु श्रियमर्पयतीति तुल्येतिवृत्तता ऋजूक्त्या शब्देनैवाभिधीयते, नैवमत्र किं तर्हि ज्वलनेतिवृत्तेन तुल्यं तत्तु तत्पुरुषाणामितिवृत्तमशाब्दं युक्तिचातुर्यात्प्रतीयते तदिदं पूर्वं च वक्रं निदर्शनम् ॥

पाणउडीति । पाणपदं म्लेच्छदेशीयम् । पाने कुटी शौण्डिककुटी वा । अत्रापीति । दृष्टान्तेऽपि पानकुटीज्वलनादिकं विशेषणमुपात्तम् । च च तद्दार्ष्टा-