315

आश्रयेषु मुग्धयुवतिर्यथा—

‘सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुप्फं ति ।
मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआइम् ॥ ५ ॥’
[सखीभिर्मण्यमाना स्तनयोर्लग्नं कुसुम्भपुष्पं ते ।
मुग्धवधूर्हस्यते प्रोञ्छन्ती नखव्रणानि ॥]

अत्र मुग्धवध्वाश्रितक्रियास्वरूपभणनादियं मुग्धाङ्गनाश्रिता जातिः ॥

अर्भकाश्रिता यथा—

‘आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलं रुदन् ।
गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ॥ ६ ॥’

अत्रार्भकाश्रितव्यापारस्वरूपोक्तेरियमर्भकाश्रिता जातिः ॥

अग्रे गतेनेति । अत्रोद्बाहुनेति यद्यप्यवस्थानमस्ति तथापि तत्परिहारेणोदाहरणभसंकीर्णम् । ‘सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुप्फं ति । मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआहम् ॥’ इत्यत्रैकस्याः कदाचिद्वितर्कायेदमपि वाक्यं बहूनां तु नेति बहुवचनस्वरसः । कुसुम्भकेसराण्युच्चेतुं वारंवारमसौ क्षेत्रं प्रविशतीति संभावना । मुग्धा अपरिशीलिताभिमानिकसुखा वधूः प्रथमपरिणीता । प्रस्फोट्यमानामपि त्वया नापसरतीत्यहो तव सौकुमार्यमिति चाटुगर्भं हसितम् । अत एव प्रियतमा तस्यानुबन्धो वर्तमाननिर्देशेन व्यज्यते । एवदग्रिमोदाहरणव्याख्याने क्रियाव्यापारग्रहणमुपलक्षणतो न व्यापारसंकरः । अन्ये त्वाहुः आश्रयावच्छेदेन बहिर्भावोऽत्र भेदहेतुरिति ॥

तिर्यगाश्रया यथा—

‘लीढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः ।
एतस्मिन्मदगन्धवासितवटः सावज्ञतिर्यग्वल- त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ ७ ॥’

अत्र सिंहस्वरूपभणनादियं तिर्यगाश्रया जातिः ॥