अत्र श्यामायामात्मद्युतावसितसिचयप्रान्तबुद्धिरतत्त्वे तत्त्वरूपा प्रियाहसितेन च कारणेन यद्बाधिता सैषातत्त्वे तत्त्वरूपा कारणबाधिता भ्रान्तिः ॥
अत्र श्यामायामिति । नात्र पूर्वोदाहरणवच्छब्देन कयाचिदपि वृत्त्यार्थाभावो विषयीकृतः किंतु प्रकारान्तरेणोन्नीयते । तथाहि नायकेनांशुकापहरणलीलायितेऽपि यदिदं राधायाः सिचयावरोधाङ्गचलनभ्रूक्षेपादि मुग्धाङ्गनोचितविभ्रमविरोधि हसितं तत्कारणं बाधस्येति ॥
तत्र तत्त्वेऽतत्त्वरूपा हानहेतुर्यथा—
अत्र पारमार्थिकीष्वपि नदीषु मृगतृष्णाप्रतारितः सन्यन्न मृगः पयः पातुं प्रतिपद्यते प्रत्युत त्यजति तेनेयं तत्त्वेऽप्यतत्त्वरूपा हानहेतुर्भ्रान्तिः ॥
हानं द्विविधम् । प्रवृत्त्यभावो विपरीतश्च प्रयत्नः । द्विधाप्यत्राभिमतमिति व्या- ख्यानेन स्फुटयति—न प्रतिपद्यते प्रत्युत त्यजतीति ॥
तत्त्वेऽतत्त्वरूपोपादानहेतुर्यथा—
अत्राङ्गीकृतलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां येयं पूवानुभूतेवंविधानेकविधविप्रलम्भसंभावनया नयनयोरनुन्मीलनबुद्धिः सेयं तत्त्वेऽप्यतत्त्वरूपोपादानहेतुर्भ्रान्तिः ॥