369

निरालम्बो यथा—

‘उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- स्तदूर्ध्वं रत्नाश्मस्थलमथ दुरूहं किमपि यत् ।
ततः कुम्भौ पश्चाद्बिसकिसलये कन्दलमये तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥ ११९ ॥’

अत्रोर्वादिषु युवत्यवयवेषूत्पन्नो रम्भास्तम्भभ्रान्तेर्योऽयमेतत्समुदाये किमिदमित्यालम्बनं विना कृतोऽनध्यवसायः स एष निरालम्बनो नाम भ्रान्त्यनध्यवसायो भ्रान्तेरेव भेदः ॥

आलम्बनं विनेति । विषयानिर्धारणं व्यक्तीकृतम् ॥

ऊहो वितर्कः संदेहनिर्णयान्तरधिष्ठितः ।
द्विधासौ निर्णयान्तश्चानिर्णयान्तश्च कीर्त्यते ॥ ३९ ॥

मिथ्याप्रतीतिसामान्यादनन्तरं वितर्कलक्षणम्—ऊह इति । यस्य प्रसिद्धिः स इत्यर्थः । पर्यायशब्देनापि लक्षणं क्रियत एव । यथा—घटपदार्थतया व्यावृत्तौ संदिहानस्य कलशपदार्थतया निश्चयवतो यः कलशः स घट इति । कथमसौ संशयविपर्ययाभ्यां भिद्यत इत्यत आह—संदेहेति । संदेहो नानाकोटिकस्तथाभूतामेव जिज्ञासां प्रसूते, तर्कस्तु तदनन्तरभावी नियतकोटिकस्तथाभूतामिति । कालस्वरूपकार्यभेदात् संशयतो भेद इति । एवं विपर्ययतोऽपि । स हि तर्कान्तरभाविनिश्चयात्मकः प्रवृत्त्यादिहेतुभूतश्च । तदयं तर्काभासस्य विपर्ययापर्यवसायिनो विषयविभागः कृतः, स तु तर्कस्य विषयविभागः स्फुट एव संदेहनिर्णययोर्मध्यमधिष्टितः स तद्वर्ती । विभागमाह—द्विधासाविति । निर्णयान्तरोपन्यस्तः फलभूतानिश्चयोऽतथाभूतो निर्णयान्तो निश्चयः ॥

प्रमितिविपर्ययरूपतया द्विविध इत्याशयवान्निर्णयार्थं विभजते—

तत्त्वानुपात्यतत्त्वानुपाती यश्चोभयात्मकः ।
स निर्णयान्त इतरो मिथ्यामिथ्योभयात्मकः ॥ ४० ॥

तत्त्वानुपातीति । निगदेनैव व्याख्यातम् ॥